|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.29. अध्यायः 029
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन स्वस्य कुरुपाण्डेषु तुल्यवृत्तित्वकथनपूर्वकं कर्मणामवश्यानुष्ठेयत्वसमर्थनम् ॥ 1 ॥ तथा सञ्जयंप्रति दुर्योधनादिकृत्यनयस्मारणपूर्वकं स्वस्य सन्ध्यर्थं तत्रागमनकथनम् ॥ 2 ॥ तथा पाण्डवानां शमाशमान्यतरपक्षानुसारित्वकथनपूर्वकं धृतराष्ट्रंप्रति यथाभिलषितकरणकथनचोदनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
वासुदेव उवाच। 5-29-0x(3430)(32527)
अविनाशं सञ्जय पाण्डवाना-
मिच्छाम्यहं भूतिमेषां प्रियं च।
तथा राज्ञो धृतराष्ट्रस्य सूत
समाशंसे बहुपुत्रस्य वृद्धिम् ॥ 5-29-1(32528)
कामो हि मे सञ्जय नित्यमेव
नान्यद्ब्रूयां तान्प्रति शाम्यतेति।
राज्ञश्च हि प्रियमेतच्छृणोमि
मन्ये चैतत्पाण्डवानां समक्षम् ॥ 5-29-2(32529)
सुदुष्करस्तत्र शमो हि नूनं
प्रदर्शितः सञ्जय पाण्डवेन।
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः
कस्मादेषां कलहो नावमूर्च्छेत् ॥ 5-29-3(32530)
न त्वं धर्मं विचरं सञ्जयेह
मत्तश्च जानामि युधिष्ठिराच्च
अथो कस्मात्सज्जय पाण्डवस्य
उत्साहिनः पूरयतः स्वकर्म ॥ 5-29-4(32531)
यथाख्यातमावमतः कुटुम्बे
पुरा कस्मान्साधुविलोपमात्थ।
अस्मिन्विधौ वर्तमाने यथाव-
दुच्चावचा मतयो ब्राह्मणानाम् ॥ 5-29-5(32532)
कर्मणाऽऽहुः सिद्धिमेके परत्र
हिन्वा कर्म विद्यया सिद्धिमेके।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये-
द्विद्वानपीह विहितं ब्राह्मणानाम् ॥ 5-29-6(32533)
या वै विद्याः साधयन्तीह कर्म
तासां फलं विद्यते नेतरासाम्।
तत्रेह वै दृष्टफलं तु कर्म
पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ॥ 5-29-7(32534)
सोऽयं विधिर्विहितः कर्मणैव
संवर्तते सञ्जय तत्र कर्म।
तत्र योऽन्यत्कर्मणः साधु मन्ये-
न्मोघं तस्यालपितं दुर्बलस्य ॥ 5-29-8(32535)
कर्मणाऽमी भान्ति देवाः परत्र
कर्मणैवेह प्लवते मातरिश्वा।
अहोरात्रे विदधत्कर्मणैव
अतन्द्रितो नित्यमुदेति सूर्यः ॥ 5-29-9(32536)
मासार्धमासानथ नक्षत्रयोगा-
नतन्द्रितश्चन्द्रमाश्चाभ्युपैति।
अतन्द्रितो दहते जातवेदाः
समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥ 5-29-10(32537)
अतन्द्रिता भारमिमं महान्तं
बिभर्ति देवी पृथिवी वलेन।
अतन्द्रिताः शीघ्रसपो वहन्ति
सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥ 5-29-11(32538)
अतन्द्रितो वर्षति भूरितेजाः
सन्नादयन्नन्तरिक्षं दिशश्च।
अतन्द्रितो ब्रह्मचर्यं चचार
श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥ 5-29-12(32539)
हित्वा सुखं मनसश्च प्रियाणि
तेन शक्रः कर्मणा श्रैष्ठ्यमाप।
सत्यं धर्मं पालयन्नप्रमत्तो
दमं तितिक्षां समतां प्रियं च ॥ 5-29-13(32540)
एतानि सर्वाण्युपसेवमानो
यो देवराज्यं मघवान्प्राप मुख्यम्।
बृहस्पतिर्ब्रह्मचर्यं चचार
समीहितः संशिमात्मा यथावत् ॥ 5-29-14(32541)
हित्वा सुख प्रतिरुध्येन्द्रियाणि
तेन देवानामगमद्गौरवं सः।
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति
रुद्रादित्या वसवोऽथापि विश्वे ॥ 5-29-15(32542)
यमो राजा वैश्रवणः कुबेरो
गन्धर्वयक्षाप्सरसश्च सूत।
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च
निपेवमाणा ऋषयोऽमुत्र भान्ति ॥ 5-29-16(32543)
जानन्निमं सर्वलोकस्य धर्मं
विप्रेन्द्राणां क्षत्रियाणां विशां च।
स कस्मात्त्वं जानतां ज्ञानवान्सन्
व्यायच्छसेक सञ्जय कौरवार्थे ॥ 5-29-17(32544)
आम्नायेषु नित्यसंयोगमस्य
तथाऽश्वमेधे राजसूये च विद्धि।
संयुज्यते धनुपा वर्मणा च
हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥ 5-29-18(32545)
ते चेदिमे कौरवाणाम्रुपाय-
मवगच्छेयुवधेनैव पार्थाः।
धर्मत्राणं पुण्यमेषां कृतं स्या-
दार्ये वृत्ते भीमसेनं निगृह्य ॥ 5-29-19(32546)
ते चेत्पित्र्ये कर्मणि वर्तमाना
आपद्येरन्दिष्टवशेन मृत्युम्।
यथाशक्त्यापूरयन्तः स्वकर्म
तदप्येषां निधनं स्यात्प्रशस्तम् ॥ 5-29-20(32547)
उताहो त्वं मन्यसे शाम्यमेव
राज्ञां युद्धे वर्तते धर्मतन्त्रम्।
अयुद्धे वा वर्तते धर्मतन्त्रं
तथैव ते वाचमिमां श्रृणोमि ॥ 5-29-21(32548)
चातुर्वर्ण्यस्य प्रथमं संविभाग-
मवेक्ष्य त्वं सञ्जय स्वं च कर्म।
निशम्याथो पाण्डवानां च कर्म
प्रशंस वा निन्द वा या मतिस्ते॥ 5-29-22(32549)
अधीयीत ब्राह्मणो वै यजेत
दद्यादीयात्तीर्थमुख्यानि चैव।
अध्याप्रयेद्याजयेच्चापि याज्यान्
प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ॥ 5-29-23(32550)
` अधीयीत क्षत्रियोऽथो यजेत
दद्याद्धनं न तु याचेत किंचित्।
न याजयेन्न तु चाध्यापयीत
एवं स्मृतः क्षत्रधर्मः पुराणः ॥' 5-29-24(32551)
तथा राजन्यो रक्षणं वै प्रजानां
कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा।
यज्ञैदिष्ट्वा सर्ववेदानधीत्य
दारान्कृवा पुण्यकृदावसेद्गृहान् ॥ 5-29-25(32552)
स धर्मात्मा धर्ममधीत्य पुण्यं
यदृच्छया व्रजति ब्रह्मलोकम्।
वैश्योऽधीत्य कृषिगोरक्षपण्यै-
र्वित्तं चिन्वन्पालयन्नप्रमत्तः ॥ 5-29-26(32553)
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां
धर्मशीलः पुण्यकृदावसेद्गृहान्।
परिचर्या वन्दनं ब्राह्मणानां
नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।
नित्योत्थितो भूतयेऽतन्द्रितः स्या-
देवं स्मृतः शूद्रधर्मः पुराणः ॥ 5-29-27(32554)
एतान्राजा पालयन्नप्रमत्तो
नियोजयन्सर्ववर्णान्स्वधर्मे।
अकामात्मा समवृत्तिः प्रजासु
नाधार्मिकाननुरुध्येत कामात् ॥ 5-29-28(32555)
श्रेयांस्तस्माद्यदि विद्येत कश्चि-
दभिज्ञातः सर्वधर्मोपपन्नः ।
स तं द्रष्टुमनुशिष्यन्प्रजानां
न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥ 5-29-29(32556)
यदा गृध्येत्परभूतौ नृशंसो
विधिप्रकोपाद्बलमाददानः।
ततो राज्ञामभवद्युद्धमेत-
त्तत्र जातं वर्म शस्त्रं धनुश्च।
इन्द्रेणैतद्दस्युवधाय कर्म
उत्पादितं वर्म शस्त्रं धनुश्च ॥ 5-29-30(32557)
तत्र पुण्यं दस्युवधेन लभ्यते
सोऽयं दोषः कुरुभिस्तीव्ररूपः ।
अधर्मज्ञैर्धर्ममबुध्यमानैः
प्रादुर्भूतः सञ्जय साधु तन्न ॥ 5-29-31(32558)
तत्र राजा धृतराष्ट्रः सपुत्रो
धर्म्यं हरेत्पाण्डवानामकस्मात्।
नावेक्षन्ते राजधर्मं पुराणं
तदन्वयाः कुरवः सर्व एव ॥ 5-29-32(32559)
स्तेनो हरेद्यत्र धनं ह्यदृष्टः
प्रसह्य वा यत्र हरेत दृष्टः ।
उभौ गर्ह्यौ भवतः सञ्जयैतौ
किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे ॥ 5-29-33(32560)
सोऽयं लोभान्मन्यते धर्ममेतं
यमिच्छति क्रोधवशानुगामी।
भागः पुनः पाण्डवानां निविष्ट-
स्तं नः कस्मादाददीरन्परे वै ॥ 5-29-34(32561)
अस्मिन्पदे युध्यतां नो वधोऽपि
श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम्।
एतान्धर्मान्कौरवाणां पुराणा-
नाचक्षीथाः सञ्जय राजमध्ये ॥ 5-29-35(32562)
एते मदान्मृत्युवशाभिपन्नाः
समानीता धार्तराष्ट्रेण मूढाः।
इदं पुनः कर्म पापीय एव
सभामध्ये पश्य वत्तं कुरूणाम् ॥ 5-29-36(32563)
प्रियं भार्यां द्रौपदीं पाण्डवानां
यशस्विनीं शीलवृत्तोपपन्नाम्।
यदुपैक्षन्त कुरवो भीष्ममुख्याः
कामानिगेनोपरुद्धां व्रजन्तीम् ॥ 5-29-37(32564)
तां चेत्तदा ते सकुमारवृद्धा
अवारयिष्यन्कुरवः समेताः ।
मम प्रियं धृतराष्ट्रोऽकरिष्यत्
पुत्राणां च कृतमस्याभविष्यत् ॥ 5-29-38(32565)
दुःशासनः प्रतिलोम्यान्निनाय
सभामध्ये श्वशुराणां च कृष्णाम्।
सा तत्र नीता करुणं व्यपेक्ष्य
नान्यं क्षत्तुर्नाथमवाप किंचित् ॥ 5-29-39(32566)
कार्पण्यादेव सहितास्तत्र भूपा
नाशक्नुवन्प्रतिवक्तुं सभायाम्।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो
धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥ 5-29-40(32567)
अबुद्ध्वा त्वं धर्ममेतं सभाया-
अथेच्छसे पाण्डवस्योपदेष्टुम् ।
कृष्णा त्वेतत्कर्म चकार शुद्धं
सुदुष्करं तत्र सभां समेत्य ॥ 5-29-41(32568)
येन कृच्छ्रात्पाण्डवानुज्जहार
तथाऽऽत्मानं नौरिव सागरौघात्।
यत्राब्रवीत्सूतपुत्रः सभायां
कृष्णां स्थितां श्वशुराणां समीपे ॥ 5-29-42(32569)
न ते गतिर्विद्यते याज्ञसेनि
प्रपद्येथा धार्तराष्ट्रस्य वेश्म।
पराजितास्ते पतयो न सन्ति
पतिं चान्यं भामिनि त्वं वृणीष्व ॥ 5-29-43(32570)
यो बीभत्सोर्हृदये प्रोत आसी-
दस्थि छिन्दन्मर्मघाती सुघोरः ।
कर्णाच्छरो वाङ्भयस्तिग्मतेजाः
प्रतिष्ठितो हृदये फाल्गुनस्य ॥ 5-29-44(32571)
कृष्णाजिनानि परिधित्समानान्
दुःशासनः कटुकान्यभ्यभाषत्।
एते सर्वे षण्डतिला विनष्टाः
क्षयं गता नरकं दीर्घकालम् ॥ 5-29-45(32572)
गान्धारराजः शकुनिर्निकृत्या
यदब्रवीद्द्यूतकाले स पार्थम्।
पराजितो नकुलः किं तवास्ति
कृष्णया त्वं दीव्य वै याज्ञसेन्या।
जानासि त्वं सञ्जय सर्वमेतत्
द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ॥ 5-29-46(32573)
स्वयं त्वहं प्रार्थये तत्र गन्तुं
समाधातुं कार्यमेतद्विपन्नम् ।
` जानासि त्वं धार्तराष्ट्रस्य मोहं
दुरात्मनः पापवशानुगस्य ' ॥ 5-29-47(32574)
अहापयित्वा यदि पाण्डवार्थं
शमं कुरूणामपि चेच्छकेयम्।
पुण्यं च मे स्याच्चरितं महोदयं
मुच्येरंश्च कुरवो मृत्युपाशात् ॥ 5-29-48(32575)
अपि मे वाचं भाषमाणस्य काव्यां
धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः समक्षं
मां च प्राप्तं कुरवः पूजयेयुः ॥ 5-29-49(32576)
अतोऽन्यथा रथिना फाल्गुनेन
भीमेन चैवाहवदंशितेन।
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि
प्रदह्यमानान्कर्मणा स्वेन पापान् ॥ 5-29-50(32577)
पराजितान्पाण्डवेयांस्तु वाचो
रौद्रा रूक्षा भाषते धार्तराष्ट्रः ।
गदाहस्तो भीमसेनोऽप्रमत्तो
दुर्योधनं स्मारयिता हि काले ॥ 5-29-51(32578)
सुयोधनो मन्युमयो महाद्रुमः
स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्कफले समृद्धे
मूलं राजा धृतराष्ट्रोऽमनीषी ॥ 5-29-52(32579)
युधिष्ठिरो धर्ममयो महाद्रुमः
स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीपुत्रौ पुष्पफले समृद्धे
मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥ 5-29-53(32580)
` वनं राजा धृतराष्ट्रः सपुत्रः
सिंहा वने सञ्जय पाण्डवेयाः।
सिंहाभिगुप्तं न वनं विनश्येत्
सिंहो न नश्येत वनाभिगुप्तः ॥ 5-29-54(32581)
निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम्।
तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ॥' 5-29-55(32582)
वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः।
मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना॥ 5-29-56(32583)
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्।
तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत् ॥ 5-29-57(32584)
लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ 5-29-58(32585)
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥ 5-29-59(32586)
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः।
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ॥ 5-29-60(32587)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकोनत्रिंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-29-2 शाम्यतेति वचनादन्यत्तान्प्रति न ब्रूयाम् । पाण्डवानां समक्षं राज्ञो युधिष्ठिराच्च एतदेव शृणोमि। अहं च एतन्मन्ये मानयामि ॥ 2 ॥ 5-29-3 तत्र राज्ये निमित्ते। गृद्धः लिप्सावान् । एवं सति एषां कौरवाणां कस्माद्धेतोः कलहः नावमूर्च्छेत् ॥ 3 ॥ 5-29-4 विचरं विचलितम्। पूरयतः पालयतः ॥ 4 ॥ 5-29-5 यथाख्यातं प्रसिद्धिमनतिक्रम्य आवसतः अधितिष्टतः साधुविलोपं धर्मलोपं युधिष्ठिरे कस्माद्धेतोः आत्थ उक्तवान् त्वम्। अस्मिन्विधौ ॥ 5 ॥ 5-29-17 व्यायच्छसे निग्रहं करोषि ॥ 17 ॥ 5-29-18 विद्या धर्मः शौर्यं च युधिष्ठिरे पुष्कलमस्तीति नायमन्येन शिक्षणीयो जेतुं वा शक्य इत्यर्थः ॥ 18 ॥ 5-29-19 कौरवाणां अवधेन उपायम्। राज्यप्राप्ताविति शेषः। एषां एतैः। भीमसेनं आर्ये वृत्ते अहिंसायां निगृह्य पुण्यमेव कृतं स्यात् ॥ 19 ॥ 5-29-21 शाम्यमेव शमः कार्यएवेति मन्यसे तर्हि धर्ममन्त्रं धर्मानुष्ठानं युद्धपक्षेऽस्ति उत अयुद्धपक्षे । तयोर्मध्ये यदेव वक्ष्यसि तथैव ते वाचं श्रृणोमि करिष्यामीत्यर्थः ॥ 21 ॥ 5-29-26 सः क्षत्रियः अधीत्य प्राप्य ॥ 26 ॥ 5-29-29 तस्मात् राज्ञः श्रेयान् प्रशस्ततरः अभिज्ञातः ज्ञानतः धर्मतश्च यदि कश्चिदस्ति स तं युधिष्ठिरं प्रजानां कर्मणि षष्ठी। प्रजाः द्रष्टुं राज्यं प्राप्तुमित्यर्थः। अनुशिष्यन् अनुशासितुमिच्छत् एतन्मदुक्तं धर्मजातं युधिष्ठिरेऽस्तीति बुध्येत्। नच तस्मिन्नसाधुः युधिष्ठिरेऽसाधुरधर्मो न चास्तीत्यपि बुध्येत् ॥ 29 ॥ 5-29-30 परभूतौ परैश्वर्ये नूशंसश्चोरकल्पो राजा विधिप्रकोषात् दैवप्रातकूल्यात् गृद्ध्येत्। ततो हेतोः राज्ञां परस्परं युद्धं समभवत् । कर्म युद्धम्। वर्म कवचम्। शस्त्रं खङ्गादि धनुश्चेति॥ 30 ॥ 5-29-31 कुरुभिर्निमित्तभूतैरयं दोषः वञ्जनारूपः प्रादुर्भूतः ॥ 31 ॥ 5-29-32 धर्म्यं धर्मादागतं पित्र्यं राज्यम्। तदन्वयास्तदनुसारिणः ॥ 32 ॥ 5-29-33 पृथत्क्वं स्तेनादन्यत्वम् ॥ 33 ॥ 5-29-34 एतं छलेन राज्यापहारम्। निविष्टः वनवासादूर्ध्वं राज्यं ग्राह्यमिति कौरवेषु न्यासरूपेण स्थितः तं भागं नः अस्माकं परे कस्मात् आददीरन् गृहीतवन्तः ॥ 34 ॥ 5-29-35 पदे पदनीये अवश्यग्राह्ये भागे निमित्ते ॥ 35 ॥ 5-29-37 कामानुगेन रजसा। उपरुद्धां गृहकर्मतो निरुद्धाम् ॥ 37 ॥ 5-29-39 प्रातिलोम्यात् अक्रमेण ॥ 39 ॥ 5-29-40 कार्पण्यात् दैन्यात् ॥ 40 ॥ 5-29-41 पाण्डवस्य धर्मं उपदेष्टुं इच्छसे ॥ 41 ॥ 5-29-47 विपन्नं नष्टं समाधातं समीकर्तुम् ॥ 47 ॥ 5-29-48 शकेयं शक्तश्चेत्स्याम् ॥ 48 ॥ 5-29-49 काव्यां शोक्रीम् ॥ 49 ॥ 5-29-51 रौद्राः मर्मच्छिदः। रूक्षाः निःस्नेहाः। भाषते द्यूतावसानेऽभाषत ॥ 51 ॥ 5-29-53 ब्रह्म वेदः ॥ 53 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|